अमोघ शिव कवच स्तोत्र
॥ विनियोगः ॥
ॐ अस्य श्रीशिवकवचस्तोत्रमन्त्रस्य, ऋषभ ऋषिः, अनुष्टुप्छन्दः, श्रीसदाशिवरुद्रः देवता, श्रीं ह्रीं क्लीं बीजम्, ह्रीं शक्तिः, वं कीलकम्, श्रीसदाशिवप्रीत्यर्थे मम सपरिवारस्य आत्मरक्षणार्थं च शिवकवचस्तोत्र पाठे विनियोगः ॥
॥ ऋष्यादिन्यासः ॥
ॐ ऋषभऋषये नमः शिरसि । अनुष्टुप् छन्दसे नमः, मुखे । श्रीसदाशिवरुद्रदेवताय नमः हृदि । ह्रीं शक्तये नमः, पादयोः । वं कीलकाय नमः नाभौ । श्री ह्रीं क्लीमिति बीजाय नमः गुह्ये । विनियोगाय नमः, सर्वाङ्गे ॥
॥ अथ करन्यासः ॥
ॐ नमो भगवते ज्वलज्ज्वालामालिने,
ॐ ह्रीं रां सर्वशक्तिधाम्ने ईशानात्मने अङ्गुष्ठाभ्यां नमः।
ॐ नमो भगवते ज्वलज्ज्वालामालिने,
ॐ नं रीं नित्यतृप्तिधाम्ने तत्पुरुषात्मने तर्जनीभ्यां नमः।
ॐ नमो भगवते ज्वलज्ज्वालामालिने,
ॐ मंरूं अनादिशक्तिधाम्ने अघोरात्मने मध्यमाभ्यां नमः।
ॐ नमो भगवते ज्वलज्ज्वालामालिने,
ॐ शिं रैं स्वतन्त्रशक्तिधाम्ने वामदेवात्मने अनामिकाभ्यां नमः।
ॐ नमो भगवते ज्वलज्ज्वालामालिने,
ॐ वां रौं अलुप्तशक्तिधाम्ने सद्योजातात्मने कनिष्ठिकाभ्यां नमः।
ॐ नमो भगवते ज्वलज्ज्वालामालिने,
ॐ यं रः अनादिशक्तिधाम्ने सर्वात्मने करतलकरपृष्ठाभ्यां नमः ॥
॥ हृदयाद्यङ्गन्यासः॥
ॐ नमो भगवते ज्वलज्ज्वालामालिने,
ॐ ह्रीं रां सर्वशक्तिधाम्ने ईशानात्मने हृदयाय नमः ।
ॐ नमो भगवते ज्वलज्ज्वालामालिने,
ॐ नं रीं नित्यतृप्तिधाम्ने तत्पुरुषात्मने शिरसे स्वाहा ।
ॐ नमो भगवते ज्वलज्ज्वालामालिने,
ॐ मंरू अनादिशक्तिधाम्ने अघोरात्मने शिखायै वषट् ।
ॐ नमो भगवते ज्वलज्ज्वालामालिने,
ॐ शिं रैं स्वतन्त्रशक्तिधाम्ने वामदेवात्मने कवचाय हुम् ।
ॐ नमो भगवते ज्वलज्ज्वालामालिने,
ॐ वां रौं अलुप्तशक्तिधाम्ने सद्योजातात्मने नेत्रत्रयाय वौषट्।
ॐ नमो भगवते ज्वलज्ज्वालामालिने
ॐ यं रः अनादिशक्तिधाम्ने सर्वात्मने अस्त्राय फट् ॥
|| अथ ध्यानम् ||
वज्रदंष्ट्रं त्रिनयनं कालकण्ठमरिन्दमम् ।
सहस्रकरमप्युग्रं वन्दे शम्भुमुमापतिम् ॥
॥ अथ कवचम् ॥
संसारकूपे पतितं गभीरे।
तन्नाम दिव्यं वरमन्त्रमूलं,
धुनोतु मे सर्वमघं हृदिस्थम्॥ ५॥
सर्वत्र मां रक्षतु,
विश्वमूर्तिर्ज्योतिर्मयानन्दघनश्चिदात्मा।
अणोरणीयानुरुशक्तिरेकः,
स ईश्वरः पातु भयादशेषात् ॥ ६॥
यो भूस्वरूपेण बिभर्ति विश्वं,
पायात्स भूमेर्गिरिशोऽष्टमूर्तिः।
योऽपां स्वरूपेण नृणां करोति,
सञ्जीवनं सोऽवतु मां जलेभ्यः ॥ ७॥
कल्पावसाने भुवनानि दग्ध्वा,
सर्वाणि यो नृत्यति भूरिलीलः।
स कालरुद्रोऽवतु मां,
दवाग्नेर्वात्यादिभीतेरखिलाच्च तापात् ॥ ८॥
प्रदीप्तविद्युत्कनकावभासो,
विद्यावराभीतिकुठारपाणिः ।
चतुर्मुखस्तत्पुरुषस्त्रिनेत्रः,
प्राच्यां स्थितं रक्षतु मामजस्त्रम् ॥ ९॥
कुठारवेदाङ्कुशपाशशूलक,
पालढक्काक्षगुणान्दधानः।
चतुर्मुखो नीलरुचिस्त्रिनेत्र:,
पायादघोरो दिशि दक्षिणस्याम् ॥ १०॥
कुन्देन्दुशङ्खस्फटिकावभासो,
वेदाक्षमालावरदाभयाङ्कः ।
त्र्यक्षश्चतुर्वक्त्र उरुप्रभावः,
सद्योऽधिजातोऽवतु मां प्रतीच्याम् ॥ ११॥
वराक्षमालाभयटङ्कहस्तः,
सरोजकिञ्जल्कसमानवर्णः ।
त्रिलोचनश्चारुचतुर्मुखो मां,
पायादुदिच्यां दिशि वामदेवः ॥ १२॥
वेदाभयेष्टाङ्कुशटङ्कपाश-
कपालढक्काक्षशूलपाणिः।
सितद्युतिः पञ्चमुखोऽवतान्मामीशान,
ऊर्ध्वं परमप्रकाशः ॥ १३॥
मूर्धानमव्यान्मम चन्द्रमौलिर्भालं,
ममाव्यादथ भालनेत्रः।
नेत्रे ममाव्याद्भगनेत्रहारी,
नासां सदा रक्षतु विश्वनाथः ॥ १४॥
पायाच्छ्रुती मे श्रुतिगीतकीर्तिः,
कपोलमव्यात्सततं कपाली ।
वक्त्रं सदा रक्षतु पञ्चवक्त्रो,
जिह्वां सदा रक्षतु वेदजिह्वः ॥ १५॥
कण्ठं गिरीशोऽवतु नीलकण्ठः,
पाणिद्वयं पातु पिनाकपाणिः ।
दोर्मूलमव्यान्मम धर्मबाहुर्वक्षःस्थलं,
दक्षमखान्तकोऽव्यात् ॥ १६॥
ममोदरं पातु गिरीन्द्रधन्वा,
मध्यं ममाव्यान्मदनान्तकारी ।
हेरम्बतातो मम पातु नाभिं,
पायात्कटी धूर्जटिरीश्वरो मे ॥ १७॥
ऊरुद्वयं पातु कुबेरमित्रो,
जानुद्वयं मे जगदीश्वरोऽव्यात् ।
जङ्घायुगं पुङ्गवकेतुरव्यात्पादौ,
ममाव्यात्सुरवन्द्यपादः ॥ १८॥
महेश्वरः पातु दिनादियामे,
मां मध्ययामेऽवतु वामदेवः ।
त्रियम्बकः पातु तृतीययामे
वृषध्वजः पातु दिनान्त्ययामे ॥ १९॥
पायान्निशादौ शशिशेखरो,
मां गङ्गाधरो रक्षतु मां निशीथे ।
गौरीपतिः पातु निशावसाने,
मृत्युञ्जयो रक्षतु सर्वकालम् ॥ २०॥
अन्तःस्थितं रक्षतु शङ्करो,
मां स्थाणुः सदा पातु बहिः स्थितं माम् ।
तदन्तरे पातु पतिः पशूनां,
सदाशिवो रक्षतु मां समन्तात् ॥ २१॥
तिष्ठन्तमव्याद्भुवनैकनाथः,
पायाद्व्रजन्तं प्रमथाधिनाथः ।
वेदान्तवेद्योऽवतु मान्निषण्णं,
मामव्ययः पातु शिवः शयानम् ॥ २२॥
मार्गेषु मां रक्षतु नीलकण्ठः,
शैलादिदुर्गेषु पुरत्रयारिः ।
अरण्यवासादिमहाप्रवासे,
पायान्मृगव्याध उदारशक्तिः ॥ २३ ॥
कल्पान्तकाटोपपटुप्रकोपः,
स्फुटाट्टहासोच्चलिताण्डकोशः ।
घोरारिसेनार्णवदुर्निवार,
महाभयाद्रक्षतु वीरभद्रः ॥ २४॥
पत्त्यश्वमातङ्गघटावरूथ,स
हस्रलक्षायुतकोटिभीषणम् ।
अक्षौहिणीनां शतमाततायिनां,
छिन्द्यान्मृडो घोरकुठारधारया ॥ २५॥
निहन्तु दस्यून्प्रलयानलार्चि,
र्ज्वलत्त्रिशूलं त्रिपुरान्तकस्य ।
शार्दूलसिंहर्क्षवृकादिहिंस्त्रान्सन्त्रा-
सयत्वीशधनुः पिनाकम् ॥ २६॥
दुःस्वप्नदुः शकुनदुर्गतिदौर्मनस्य,
दुर्भिक्षदुर्व्यस नदुः सहदुर्यशांसि ।
उत्पाततापविषभीतिमसद्ग्रहार्तिव्याधींश्च,
नाशयतु मे जगतामधीशः ॥ २७॥
ॐ नमो भगवते सदाशिवाय सकलतत्त्वात्मकाय सकलतत्त्वविहाराय सकललोकैककर्त्रे सकललोकैकभर्त्रे सकललोककैकहर्त्रे सकललोककैकगुरवे सकललोकैकसाक्षिणे सकलनिगमगुह्याय सकलवरप्रदाय सकलदुरितार्तिभञ्जनाय सकलजगदभयङ्काराय सकललोकैकशङ्कराय शशाङ्कशेखराय शाश्वतनिजाभासाय निर्गुणाय निरुपमाय नीरूपाय निराभासाय निराममाय निष्प्रपञ्चाय निष्कलङ्काय निर्द्वन्द्वाय निःसङ्गाय निर्मलाय निर्गमाय नित्यरूपविभवाय निरुपमविभवाय निराधाराय नित्यशुद्धबुद्धपरिपूर्णसच्चिदानन्दाद्वयाय परमशान्तप्रकाशतेजोरूपाय जयजय महारुद्र महारौद्र भद्रावतार कालभैरव दुःखदावदारण कल्पान्तभैरव कपालमालाधर महाभैरव खट्वाङ्गखङ्गचर्मपाशाङ्कुशडमरुशूलचापबाणगदाशक्तिभिण्डिपाल- भिन्दितोमरमुसलमुद्गरपट्टिशपरशुपरिघभुशुण्डीशतघ्नीचक्राद्यायुध- भीषणकरसहस्र मुखदंष्ट्राकराल विकटाट्टहासविस्फारितब्रह्माण्डमण्डल नागेन्द्रकुण्डल नागेन्द्रहार नागेन्द्रवलय नागेन्द्रचर्मधर मृत्युञ्जय त्र्यम्बक त्रिपुरान्तक विरूपाक्ष विश्वेश्वर विश्वरूप वृषभवाहन विषभूषण विश्वतोमुख सर्वतो मां रक्ष रक्ष ज्वल ज्वल महामृत्युभयम् अपमृत्युभयं नाशयनाशय रोगभयमुत्सादयोत्सादय विषसर्पभयं शमयशमय चोरभयं मारयमारय मम शत्रूनुच्चाटयोच्चाटय शूलेन विदारय विदारय कुठारेण भिन्धिभिन्धि खड्गेन छिन्धिछिन्धि खट्वाङ्गेन विपोथय विपोथय मुसलेन निष्पेषयनिष्पेषय बाणैः सन्ताडय सन्ताडय रक्षांसि भीषयभीषय भूतानि विद्रावयविद्रावय कूष्माण्डवेतालमारीगणब्रह्मराक्षसान्सन्त्रासयसन्त्रासय मामभयं कुरुकुरु वित्रस्तं मामाश्वासयाश्वासय नरकभयान्मामुद्धारयोद्धारय सञ्जीवयसञ्जीवय क्षुतृड्भ्यां मामाप्याययाप्यायय दुःखातुरं मामानन्दयानन्दय शिवकवचेन मामाच्छादयाच्छादय त्र्यम्बक सदाशिव नमस्ते नमस्ते नमस्ते ।।
Note: पुनः सभी न्यास निम्न प्रकार करें और कम से पंचोपचार पूजन करे, जो निम्नवत है:
करन्यासः
ओं सदाशिवाय अङ्गुष्ठाभ्यां नमः ।
नं गङ्गाधराय तर्जनीभ्यां नमः ।
मं मृत्युञ्जयाय मध्यमाभ्यां नमः ।
शिं शूलपाणये अनामिकाभ्यां नमः ।
वां पिनाकपाणये कनिष्ठिकाभ्यां नमः ।
यं उमापतये करतलकरपृष्ठाभ्यां नमः ।
हृदयादि अङ्गन्यासः
ओं सदाशिवाय हृदयाय नमः।
नं गङ्गाधराय शिरसे स्वाहा ।
मृत्युञ्जयाय शिखायै वषट् ।
शिं शूलपाणये कवचाय हुम् ।
वां पिनाकपाणये नेत्रत्रयाय वौषट् ।
यं उमापतये अस्त्राय फट् ।
भूर्भुवस्सुवरोमिति दिग्बन्धः॥
।। पञ्चपूजा ।।
लं पृथिव्यात्मने गन्धं समर्पयामि ।
हं आकाशात्मने पुष्पैः पूजयामि ।
यं वाय्वात्मने धूपम् आघ्रापयामि ।
रं अग्न्यात्मने दीपं दर्शयामि ।
वं अमृतात्मने अमृतं महानैवेद्यं निवेदयामि ।
सं सर्वात्मने सर्वोपचारपूजां समर्पयामि ॥
!! इति श्री अमोघ शिव कवच स्तोत्रम् !!
महत्वपूर्ण :
यहाँ स्तोत्र पाठ समाप्त होता है ! अनुष्ठान के रूप में “श्री अमोघ शिव कवच" पढना हो तो साथ में फलश्रुति पढने की आवश्यकता नही है! अंतिम पाठ के उपरांत फलश्रुति पढ़ सकते है ! नित्य एक पाठ में यदि इच्छा हो तो फलश्रुति पढ़ें, अन्यथा आवश्यक नही । इस कवच की महिमा इतनी अधिक है कि, शब्द छोटे लगते है! यह अत्यंत प्रिय कवच स्तोत्र है और अनुभवसिध्द है ! इस कवच के विशेष प्रयोग भी होते है, जो भगवान शिव की परम कृपा से स्वतः समझ में आयेंगे ! इस कवच की महिमा नीचे फलश्रुति में लिखी है !
Able People Encourage Us By Donating : सामर्थ्यवान व्यक्ति हमें दान देकर उत्साहित करें।
Thanks for reading: अमोघ शिव कवच | भूत-प्रेत से हैं परेशान तो करें इस स्तोत्र का पाठ, Please, share this article. If this article helped you, then you must write your feedback in the comment box.